SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ चतुर्बत २ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारो नियता एवेति दशानां कल्पानां नियतानियतविभागः ॥ P ननु एकस्मिन्मोक्षमार्गे साध्ये कथं प्रथमचरमजिनसाधूनां द्वाविंशतिजिनसाधूनां च आचारे भेदः ? उच्यते-जीवविशेषा एव तत्र कारणं तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्याव बोधो दुर्लभो जडत्वात् । वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात् । अजितादिजिन-13 तीर्थसाधूनां तु धर्मस्यावबोधः पालनं च द्वयमपि सुकरं ऋजुप्राज्ञत्वात् तेन आचारो द्विधा कृतः। है अत्र च दृष्टांताः प्रदर्यते ॥ यथाA केचित्प्रथमजिनयतयो बहिर्भूमेगुरुसमीपमागताः पृष्टाश्च गुरुभिर्भोमुनयो! भवतां इयती वेला क्व जाता ? तैरुक्तं स्वामिन् ! वयं नटं नृत्यंतं विलोकयितुं स्थितास्ततो गुरुभिः कथितं इदं नटविलोकनं| साधूनां न कल्पते तैरपि तथेति अंगीकृतं । अथ अन्यदा ते एव साधवश्चिरेण उपाश्रयं आगता६स्तथैव गुरुभिः पृष्टाः प्रोचुः प्रभो ! वयं नटीं नृत्यंती निरीक्षितुं स्थितास्तदा गुरुभिरूचे भोमहा-18
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy