________________
कल्पसूत्र
सुबोध०
॥ १०५ ॥
| कमलाकररत्नाकर जलसंपूर्णापगाः सुहृन्मरणम् ॥ यः पश्यति लभतेऽसा वनिमित्तं वित्तमतिविपुलम् २२ अतितप्तं पानीयं, सगोमयं गडुलमौषधेन युतम् ॥ यः पिबति सोऽपि नियतं, म्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमायाः, यात्रास्नपनोपहारपूजादीन् ॥ विदधाति स्वप्ने, तस्य भवेत्सर्वतो वृद्धिः ॥ २४ ॥ स्वप्ने हृदयसरस्यां यस्य प्रादुर्भवंति पद्मानि ॥ कुष्टविनष्टशरीरो, यमवसतिं याति स त्वरितम् ॥ २५ ॥ आज्यं प्राज्यं स्वप्ने, यो विंदति वीक्षते यशस्तस्य ॥ तस्याऽभ्यवहरणं वा, क्षीरान्नेनैव सह शस्तम् ॥ २६ ॥ हसने शोचनमचिरात् प्रवर्तते नर्तने च वधबंधौ ॥ पठने कलहश्च नृणा - मेतत्प्राज्ञेन विज्ञेयम् ॥२७॥ कृष्णं कृत्स्नमशस्तं मुक्त्वा गोवाजिराजगजदेवान् ॥ सकलं शुक्लं च शुभं, त्यक्त्वा कर्पासलवणादीन् ॥ २८ ॥ दृष्टाः खप्ना ये खं, प्रति तेऽत्र शुभाशुभा नृणां स्वस्य ॥ ये प्रत्यपरं तस्य, ज्ञेयास्ते स्वस्य नो किंचित् ॥ २९ ॥ दुःस्वप्ने देवगुरून्, पूजयति करोति शक्तितश्च तपः ॥ सततं धर्मरतानां, दुःखप्नो भवति सुस्वप्नः ॥३०॥” तथा सिद्धांतेऽपि—
“इत्थी वा, पुरिसो वा, सुविणंते एगं महंतं खीरकुंभं वा, घयकुंभं वा, महुकुंभं वा, पासमाणे
चतुर्थः
क्षणः
11 8 11
॥१०५॥