________________
PERASAASAASAASAASAASAASAS
पूर्वमनिष्टं दृष्ट्वा, स्वप्नं यः प्रेक्षते शुभं पश्चात् ॥ स तु फलदस्तस्य भवेद्, द्रष्टव्यं तद्वदिष्टेऽपि ॥ ११ ॥
खप्ने मानवमृगपति-तुरंगमातंगवृषभसिंहीभिः॥ युक्तं रथमारूढो, यो गच्छति भूपतिः स भवेत् ॥१२॥ है अपहारो हयवारण-यानासनसदननिवसनादीनाम् ॥ नृपशंकाशोककरो, बंधुविरोधार्थहानिकरः ॥१३॥ यःसूर्याचंद्रमसो-बिम्ब ग्रसते समग्रमपि पुरुषः॥ कलयति दीनोऽपि महीं,ससुवर्णा सार्णवां नियतम्।१४|| हरणं प्रहरणभूषण-मणिमौक्तिककनकरूप्यकुप्यानाम्॥धनमानम्लानिकरं, दारुणमरणावहं बहुशः।१५।। आरूढःशुभ्रमिभं, नदीतटे शालिभोजनं कुरुते ॥ भुक्ते भूमीमखिलां, स जातिहीनोऽपि धर्मधनः ॥१६॥ निजभार्याया हरणे, वसुनाशः परिभवे च संक्लेशः॥ गोत्रस्त्रीणां तु नृणां, जायते बंधुवधबंधौ ॥१७॥ शुभ्रेण दक्षिणस्यां, यः फणिना दश्यते निजभुजायाम्॥आसादयति सहस्रं, कनकस्य स पंचरात्रेण।१८ जायेत यस्य हरणं, निजशयनोपानहां पुनः स्वप्ने ॥ तस्य म्रियते दयिता, निविडा खशरीरपीडा च ॥१९॥ यो मानुषस्य मस्तक-चरणभुजानां च भक्षणं कुरुते॥राज्यं कनकसहस्र, तदर्द्धमाप्नोत्यसौ क्रमशः॥२०॥ द्वारपरिघस्य शयन-प्रेखोलनपादुकानिकेतानाम् ॥भंजनमपि यः पश्यति, तस्यापि कलत्रनाशः स्यात्॥२१॥18