SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र ***** क्षणः ॥१०४॥ USAASAASAASAASAA06 “अनुभूतः१ श्रुतो २ दृष्टः३, प्रकृतेश्च विकारजः ४॥ खभावतः समुद्भूत ५ चिंतासंततिसंभवः ६ ॥१॥ देवताद्युपदेशोत्थो ७, धर्मकर्मप्रभावजः ८ ॥ पापोद्रेकसमुत्थश्च ९, स्वप्नः स्यान्नवधा नृणाम् ॥२॥ प्रकारैरादिमैः षड्भि-रशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः॥३॥ रात्रेश्चतुर्षु यामेषु, दृष्टः स्वप्नः फलप्रदः ॥ मासैादशभिः षड्भि-स्त्रिभिरेकेन च क्रमात् ॥ ४॥ है निशांत्यघटिकायुग्मे, दशाहात्फलति ध्रुवम् ॥ दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चितम् ॥ ५॥ मालास्वप्नोऽह्नि दृष्टश्च, तथाऽधिव्याधिसंभवः॥ मलमूत्रादिपीडोत्थः, खप्नः सर्वो निरर्थकः ॥ ६ ॥ [आर्यावृत्तम् ] धर्मरतः समधातु-र्यः स्थिरचित्तो जितेन्द्रियः सदयः॥ प्रायस्तस्य प्रार्थित-मर्थं स्वप्नः प्रसाधयति ॥७॥ न श्राव्यः कुखप्नो, गुर्वादेस्तदितरः पुनः श्राव्यः॥ योग्यश्राव्याभावे, गोरपि कर्णे प्रविश्य वदेत् ॥ ८॥ इष्टं दृष्ट्वा स्वप्नं, न सुप्यते नाप्यते फलं तस्य ॥ नेया निशापि सुधिया, जिनराजस्तवनसंस्तवतः॥९॥ है स्वप्नमनिष्टं दृष्ट्वा, सुप्यात्पुनरपि निशामवाप्यापि॥नाऽयं कथ्यः कथमपि, केषांचित्फलति न स तस्मात् १० **ASER ॥१०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy