________________
SASUSAKSASSASSA
नर-ईहामृगा वृकाः, व्यालकाः सर्पाः, रुरवो मृगभेदाः, शरभा अष्टापदा महाकाया अष्टवीपशवः,
'चमरत्ति' चमर्यो गावः, कुंजराः प्रतीताः,'वणलयत्तिवनलताः चंपकचूतादयः, पद्मलताः प्रतीताः, है एतेषां या भक्तयो रचनाः ताभिश्चित्रां एवंविधां अभ्यंतरां यवनिका रचयति, रचयित्वा भद्रासनं रचयति, अथ किंविशिष्टं भद्रासनं ? णाणामणि इत्यादि- विविधजातीयमणिरत्नानां भक्तिभी रचना
अत्थरयमिउमसूरगोत्थयं सेअवस्थपञ्चुत्थयं सुमउयं अंगसुहफरिसगं भिश्चित्रम् , पुनः किंविशिष्टं ? अत्थरयत्ति आस्तरकः प्रतीतः मिउमसूरगोत्थयं मृदुर्यो मसूरकः आस्तरणविशेषस्ताभ्यां अवस्तृतं आच्छादितं, यद्वा अस्तरजसा निर्मलेन मृदुना कोमलेन मसूरकेण 'चाकलो- गादी' इति जनप्रसिद्धेन आच्छादितं, अथ पुनः किंविशिष्टं ? सेअवस्थपञ्चुत्थयं श्वेतेन वस्त्रेण प्रत्यवस्तृतं उपरि आच्छादितं, पुनः किं० ? सुमउयं सुतरां मृदुकं अतिकोमलं, पुनः किंवि० ?
SHAROSANSISAAREMAA