________________
MASSASSINSREGG
चमरत्ति चमर्यो धेनवः, संसत्तत्ति संसक्ताः श्वापदविशेषाः, कुंजरा हस्तिनः वणलयत्ति वनलताः अशोकलताद्याः, पउमलयत्ति पद्मलताः पद्मिन्यः, एतेषां सर्वेषां या भत्तित्ति भक्तिः रचना चित्राणि इति यावत् , तैः चित्रं आश्चर्यकारि, पुनः किं०? गंधवोपवजमाण इत्यादि-गांधर्वशब्देन गीतं उच्यते, उपवाद्यमानशब्देन वादित्राण्युच्यते, ततो गांधर्वोपवाद्यमानानां गीतवादित्राणां संपूर्णो घोषः शब्दो ।
चमर-संसत्त-कुंजर-वणलय-पउमलयभत्तिचित्तं गंधवोपवजमाणसंपुण्णघोसं
णिचं सजलघणविउलजलहरगजियसद्दाणुणाइणा देवदुंदुभिमहारवेणं यत्र तत्तथा, पुनः किं० ? णिच्चं सजल इत्यादि-नित्यं निरंतरं सजलो जलसंपूर्णः घणत्ति घनो निविडः है। विउलत्ति विपुलः पृथुल एवंविधो यो जलधरो मेघस्तस्य यो गजियसदत्ति गर्जितशब्दो गर्जारव इत्यर्थः तस्य अणुणाइणा अनुनादिना सदृशेन देवदुंदुभिमहारवेणं देवसंबंधिदुंदुभिमहाशब्देन ।