SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अवलिह्यमानानि आखाद्यमानानि कमलानि यत्र तत्तथा, पुनः किं० ? कायंबगेत्यादि- कादंबकाः कलहंसाः, बलाहका बलाकाः, चक्राश्चक्रवाकाः, 'कलहंसत्ति' कला मधुरशब्दा ये हंसाः कलहंसाः राजहंसा इत्यर्थः, सारसा दीर्घजानुका जीवविशेषाः, इत्यादयो ये गविअसउणगणत्ति गर्विताः ताहस्थानप्राप्त्या अभिमानिनो ये शकुनिगणाः पक्षिसमूहास्तेषां मिथुनद्वंद्वैः सेव्यमानं सलिलं यस्य । कायंबगबलाहयचक्ककलहंससारसगवियसउणगणमिहुणसेविजमाणसलिलं पउमिणिपत्तोवलग्गजलबिंदुणिचयचित्तं पिच्छइ सा हिअयनयणकंतं. पउमसरं नाम सरं सररुहाभिरामं ॥१०॥४२॥ तत्तथा, पुनः किं० ? पउमिणिपत्तेत्यादि-पद्मिन्यः कमलिन्यस्तासां 'पत्तत्ति' पत्राणि तत्र 'उवलग्गत्ति' उपलग्ना ये जलबिंदुनिचयास्तैश्चित्रं मंडितमिव, इंद्रनीलरत्नमयानीव पद्मिनीपत्राणि मुक्ताफलानु-| कारिभिर्जलबिंदुभिरतीव शोभंते, तैश्च पत्रैस्तत् सरः कृतचित्र इव भातीति भावः, पिच्छइ सा इति
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy