________________
प्रथम:
कल्पसूत्रसुबोधि०
क्षणः
॥१॥
ANSARSASRARSANSAR
यद्यपि भानुद्युतयः, सर्वेषां वस्तुबोधिका बह्वयः। तदपि महीगृहगानां, प्रदीपिकैवोपकुरुते द्राग् ॥३॥ नास्यामर्थविशेषा, न युक्तयो नापि पद्यपांडित्यम् । केवलमर्थव्याख्या, वितन्यते बालबोधाय ॥ ४॥ हास्यो न स्यां सद्भिः, कुर्वन्नेतामतीक्ष्णबुद्धिरपि । यदुपदिशति त एव हि, शुभे यथाशक्ति यतनीयम् ॥५॥ . अत्र हि पूर्व नवकल्पविहारक्रमेणोपागते योग्यक्षेत्रे सांप्रतं च परंपरया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमित्तं आनंदपुरे सभासमक्षं वाचनादनु संघसमक्षं पंचभिर्दिवसैर्नवभिः क्षणैः श्रीकल्पसूत्रं वाचयंति । तत्र कल्पशब्देन साधूनां आचारः कथ्यते तस्य च कल्पस्य दशभेदा-2 स्तद्यथा-"आचेलक्कु १ देसिअ २ सिजायर ३ रायपिंड ४ किइकम्मे ५। वय ६ जिट्ट ७ पडिक्कमणे ८
मासं ९ पजोसवणकप्पे १०।१॥” व्याख्या-आचेलक्यमिति न विद्यते चेलं वस्त्रं यस्य स अचेलक-18 * स्तस्य भाव आचेलक्यं विगतवस्त्रत्वं इत्यर्थः तच्च तीर्थेश्वरानाश्रित्य प्रथमांतिमजिनयोः शक्रोपनीत-14
देवदुष्यापगमे सर्वदा अचेलकत्वं अन्येषां तु सर्वदा सचेलकत्वं “यच्च किरणावलीकारेण चतुर्विंश-14॥१॥ तेरपि जिनानां शक्रोपनीतदेवदूष्यापगमे अचेलकत्वमुक्तं तच्चिंत्यं । उसभेणं अरहा कोसलिए संवच्छरं|