________________
॥ न्यायाम्भोनिधिजैनाचार्य श्रीमद्विजयानन्दसूरिचरणकमलेभ्योनमः ॥
श्रीमद्विनयविजयोपाध्यायविरचिता
॥ श्रीकल्पसूत्रसुबोधिकावृत्तिः ॥
॥ ॐ ॐ नमः ॥ ॥ श्रीगुरुभ्यो नमः ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ श्रीसरस्वत्यै नमः ॥ ऍनमः ॥ प्रणम्य परमश्रेय - स्करं श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् ॥ १ ॥ यद्यपि बह्रयष्टीकाः, कल्पे संत्येव निपुणगणगम्याः । तदपि ममायं यत्नः, फलेग्रहिः खल्पमतिबोधात् ॥२॥