________________
कल्पसूत्र
सुबोधि०
॥६९॥
मदनस्य कामस्य शरापूरमिव तूणीरमिव, अयमर्थः - यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशंकं मृगादिकं शरैर्विध्यति एवं मदनोऽपि चंद्रोदयं प्राप्य निःशंको जनान् बाणैर्व्याकुलीकरोति, पुनः किंविशिष्टं ? समुद्ददगपूरगं समुद्रोदकपूरकं जलधिवेलावर्धकं इत्यर्थः पुनः किं० ? दुम्मणं दुर्मनस्कं व्यग्रं ईदृशं दइयवज्जिअं जणं दयितेन प्राणवल्लभेन रहितं जनं विरहिणीलोकं इत्यर्थः, पाएहिं
समुद्ददगपूरगं दुम्मणं जणं दइअवजिअं पाएहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडल
सोसयंतं पादैः किरणैः शोषयंतं वियोगिदुःखदं इत्यर्थः, यतः - " रजनिनाथ ! निशाचर! दुर्मते!, विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथमन्यथा, तव कथं च तके तनुताभृतः ॥ १॥” पुणोत्ति पुनः शब्दो धुरि योजितः, पुनः किंविशिष्टं ? सोमचारुरूवं यः सौम्यः सन् चारुरूपो मनोहररूपः
तृतीयः
क्षणः
॥३॥
॥६९॥