________________
HARASHAMISESKKAN***
वर्त्तते स्तोकाश्च अन्येऽपि वर्णा वर्त्तते इत्यर्थः सूचितः, पुनः किं० ? छप्पयेत्यादि-अत्रापि विशेषणस्य ६ परनिपाते गुमगुमायंतत्ति गुमगुमायमानो मधुरं शब्दं कुर्वन् निलिंतत्ति अन्यस्थानात् आगत्य तत्र दामनि लयं प्राप्नुवन् गुंजंतत्ति अव्यक्तं शब्दविशेषं कुर्वन् एवंविधो यः छप्पयमहुअरिभमरगणत्ति षट्पद (१) मधुकरी (२) भ्रमराणां (३) भ्रमरजातिविशेषाणां यो गणः समूहः स देशभागेषु शिखान
तनिलिंतगुंजंतदेसभागं दामं पिच्छइ नभंगणतलाओओवयंतं ॥५॥३७॥ भागपार्श्वद्वयाधोभागादिकेषु यत्र तत्तथा, कोऽर्थः ? तद्दामसौरभ्यातिशयात्सर्वभागेषु भ्रमरैः सेवि-18 तमस्तीति भावः, अत्र षट्पदमधुकरीभ्रमराणां च वर्णादिभिर्भेदो ज्ञेयः, दामं पुष्पदाम इदं विशेष्यम् पिच्छइ प्रेक्षते इति क्रियापदम् , पुनः किं० ? नभंगणतलाओ नभोंगणतलात् ओवयंत अवपतत् उत्तरत् इति तु प्राग् योजितम् ॥ ५॥ ३७॥