________________
%ASARSANSAGACAKAMS
६ कमलवत् अमले निर्मले विशाले विस्तीर्णे रमणीये च मनोहरे लोचने यस्याः सा तथा तां, पुनः किं०? कम-18
लपजलंतेत्यादि-तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः,ततः पजलंतत्ति प्रज्वलंतौ देदीप्यमानौ यौ करत्ति करौ हस्तौ ताभ्यां गहिअत्ति गृहीते ये कमलत्ति कमले ताभ्यां मुक्कत्ति मुक्तं क्षरत् तोयं है मकरंदरूपं जलं यस्याः सा तथा तां, अयमर्थः-श्रीदेव्याः तावत् द्वयोः करयोः प्रत्येक कमलं गृहीत
विसालरमणिजलोअणिं कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकयपक्खमस्ति तस्माच्च मकरंदविंदवः स्रवंतीति, पुनः किं० ? लीलावायेत्यादि-लीलया नतु प्रस्खेदापनोदाय * प्रखेदस्य दिव्यशरीरेष्वभावात् ततो लीलया वायत्ति वातोदीरणार्थं कयत्ति कृतोऽवधूतो यः पक्खयत्ति पक्षकस्तालवृतं तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्य, पुनः किंवि०? सुविसदेत्यादि-सुविशदः सुविविक्तो न पुनर्जटाजूटवत्परस्परसंलग्नः कसिणत्ति कृष्णः श्यामवर्णो घणत्ति घनोऽविरलो नतु ।
ARRAR*******