________________
कल्पसूत्र
सुबोधि०
॥६५॥
| मध्ये रिक्तः सहति सूक्ष्मो नतु शुकररोमवत् स्थूलः लंबंतत्ति लंबमानः केसहत्थत्ति केशहस्तो | वेणिर्यस्याः सा तथा ताम् । पुनः किं० ? पउमद्दहकमलवासिणिं पद्मद्रहस्य यत् कमलं पूर्वोक्तस्वरूपं तत्र निवसन्तीं सिरिं श्रियं श्रीदेवतां इदं विशेष्यं, पुनः किं० ? भगवदं भगवतीं ऐश्वर्यादियुतां
एणं सुविसदकसिणघणसण्हलंबत के सहत्थं पउमद्दहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंत सेलसिहरे दिसागइंदोरुपी - वरकराभिसिच्चमाणिं ॥ ४ ॥ ३६ ॥
पिच्छइ प्रेक्षते इदं क्रियापदं पुनः किं० ? हिमवंतसेलसिहरे हिमवन्नामा पर्वतस्तस्य शिखरे दिसागइंदोरुपीवर दिग्गजेंद्राः ऐरावणादयः तैः उरुपीवरैः दीघैः पुष्टैश्च एवंविधैः कराभिसिञ्चमाणि करैः शुंडाभिः कृत्वा अभिषिच्यमानां स्नाप्यमानामिति ॥ ४ ॥ ३६ ॥
द्वितीयः
क्षणः
॥२॥
॥६५॥