________________
वर्त्तते इत्यर्थः सूचितः, पुनः किं०? आइयत्ति आयुक्ताभिर्यथास्थानस्थापिताभिः पत्तिअत्ति पत्रिकाभिर्मरकतपत्रैः ‘पानां' इति लोकप्रसिद्धैः विभूसिएणं विभूषितेन अलंकृतेन सुभगजालुजलेणं, सुभगानि दृष्टिसुखकराणि यानि जालानि मुक्तागुच्छानि तैः उज्वलेन एवंविधेन मुत्ताकलावएणं मुक्ताकलापकेन मौक्तिकहारेण शोभितां, अत्र 'शोभितां' इति पदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं
आइयपत्तिअविभूसिएणं सुभगजालुजलेणं मुत्ताकलावएणं उरत्थदी___णारमालविरइएणं कंठमणिसुत्तएण य कुंडलजुअलुल्लसंतअंसोवसत्तअग्रे विशेषणद्वयेऽपि, पुनः किं०? उरत्थत्ति उरःस्थया हृदयस्थितया दीणारमालयत्ति दीनारमालया सौवर्णिकमालया विरइएणं विराजितेन कंठमणिसुत्तएणं कंठमणिसूत्रकेण च कंठस्थरत्नमयदवरकेण शोभितां इति पूर्ववत्, पुनः किं० ? कुंडलजुअलेत्यादि-तत्र सोभागुणसमुदएणं ईदृशेन शोभागुण समुदयेन कांतिगुणप्राग्भारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ? अंसोवसत्तत्ति