________________
वान्नामा पर्वतः । तदुपरि च दश ( १० ) योजनावगाढः, पंचशत ( ५०० ) योजनपृथुलः, सहस्र ( १००० ) योजनदी? वज्रमयतलभागः पद्महदनामा ह्रदः । तस्य मध्यभागे जलात् क्रोशद्वयोच्चं, एकयोजनपृथुलं, एकयोजनदीर्घ, नीलरत्नमयदशयोजननालं, वज्रमयमूलं, रिष्टरत्नमयकंदं, रक्तकनकमयबाह्यपत्रं,कनकमयमध्यपत्रं, एवंविधं एकं कमलं। तस्मिन् कमले चक्रोशद्वयपृथला, कोशद्वयदीर्घा, एकक्रोशोच्चा रक्तसुवर्णमयकेसरविराजिता एवंविधा कनकमयी कर्णिका । तस्या मध्ये च अर्द्धक्रोश-12 पृथुलं, एकक्रोशदीर्घ, किंचिदूनैकक्रोशोच्चं श्रीदेवीभवनं । तस्य च त्रीणि द्वाराणि, पंचशतधनुरुच्चानि, तदर्द्धमानपृथुलानि, पूर्वदक्षिणोत्तरदिस्थितानि। अथ तस्य भवनस्य मध्यभागे सार्द्धशतद्वयधनुर्मिता | रत्नमयी वेदिका । तदुपरि च श्रीदेवीयोग्यशय्या । अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आ-18 भरणभृतानि वलयाकाराणि पूर्वोक्तमानादर्द्धमानोच्चत्वदीर्घत्वपृथुत्वानि अष्टोत्तरशतं कमलानि, एवं है। |सर्वेष्वपि वलयेषु क्रमेणार्द्धार्द्धमानत्वं ज्ञेयं, इति प्रथमं वलयं । द्वितीयवलये वायव्येशानोत्तरदिक्षा चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां । पूर्वदिशि चत्वारि महत्तराकमलानि । आग्नेय्यां