________________
म्भोनिधिजैनाचार्यश्रीमद्विजयानन्दसूरीश्वरस्थापितपञ्चनदचित्कोषसत्कं नूतनं शुद्धञ्च, तृतीयं तु श्रेष्ठि "देवचन्दलालभाई" जैनपुस्तकोद्धारसंस्थया मुद्रापितम् ।
एतत्पुस्तकत्रितयीनिरीक्षणेन यथाशक्ति संशोधितेप्यत्र दृष्टिदोषादक्षरयोजकदोषाद्वा यत्र वचनाशुद्धिर्जाता कृता वा भवेत्तत्र शोधनीयं पक्षपातपराङ्मुखैः करुणावरुणालयैः सरस्वतीनिलयैरिति प्रार्थयते-विविधविबुधकलापपालिताशेषनिदेशेभ्यः प्रतिभाप्राग्भारमन्थनमथितानेकविधागमग्रामपयोधिसमुपलब्धानवद्यविद्यापीयूषपरिपूरितनितान्तशान्तखान्तेभ्यः प्रौढपाण्डित्यप्रचण्डमार्तण्डकरनिकरपराहततमतमस्सकललोकविद्योतकेभ्यो निखिलजनमनःप्राप्तात्मानन्दश्रीमद्विजयानन्दसूरिभ्यो लब्धविनेयतानां श्रीमद्धर्षविजयमुनिमचर्चिकानां विनेयवल्लभो वल्लभविजयो मुनिः ॥ ज्येष्ठे मासे सिते वर्षे, करर्ण्यकेन्दु ( १९७२ ) सङ्खयके । विजयानन्दसूरीणा-मष्टम्यां सूर्यवासरे ॥१॥ जयन्तीसमये पूर्णे, जाते सूर्यपुरे वरे । वल्लभविजयेनाय-मुपोद्घातः स्फुटीकृतः॥२॥ (युग्मम् )
उपक्षे मासे वित्त
वीर बरे वातभरि
-20