SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र उपोद्घातः सुबोधि० अवददथ च सा यथा गुरोर्नो-ऽनुमतिरधितिविधी जिनागमानाम् । न विवृतिकरणे विचारमिच्छु-यदि हि तदा प्रभुसंनिधौ प्रयाहि ॥ २४ ॥" एवमेव श्रीसमयसुन्दरोपाध्यायविरचितायां कल्पलताभिधायां श्रीकल्पसूत्रटीकायां-"अस्माभिः प्रायो गृह|स्थस्याग्रे अर्थो न कथ्यते अस्मद्गुरवः उद्याने सन्ति ते कथयिष्यन्ति" इति पाठेनापि स्पष्ट एवार्यिकाणामुपदेशदानप्रतिषेधः॥ ___ एवमन्यैरपि बहुभिराचार्यैस्तत्र तत्र स्थले साध्वीनां व्याख्यानदाननिषेध एव प्रत्यपादि परं लेखगौरवभयात्तद्वाक्यानि नेहोपन्यस्यते, एवञ्चार्यिकाणां यदा व्याख्यातृत्वमेव प्रतिषिद्धमासीदास्तां तर्हि दूरे एव छेदसूत्रान्तःपातिदशाश्रुतस्कन्धस्याष्टमाध्ययनतया प्रसिद्धस्यास्य कल्पसूत्रस्य वाचनं श्रावणञ्चेति सम्यग् विभावनीयं सुधीभिः ॥ किश्चात्राधिकृतकल्पद्रुमायमाणकल्पविषयेन्यद्यन्निगाद्यं तत्रायो व्याख्याकर्तृभिरेतैरेव निगदिष्यतेतस्तत्रैव कणेहत्यालोचनीयं प्रेक्षावद्भिरित्युपरम्यते पिष्टपेषणतः॥ __ अस्य च संशोधनसमये त्रीणि पुस्तकानि सम्प्राप्तानि, तेषु प्रथमं मरुस्थलीयपालीनगरस्थसङ्घसम्बन्धिपुस्तकभाण्डागारसत्कं.नातिनवीनमतिशुद्धं, शुद्धश्रद्धालुश्राद्धवर्य "तेजमाल पोरवाड" इत्यनेन प्रेषितं, द्वितीयं पुनः श्रीन्याया ॥५॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy