________________
SUSMROMASALAMAUSAMS
कवोलमूलं कपोलमूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितमस्ति तद्गधेन भ्रमरा अपि तत्र मिलितास्सन्तीति भावः,पुनः कीदृशं ? देवरायकुंजरवरप्पमाणं देवराजो देवेंद्रस्तस्य कुंजरो हस्ती तद्वद्वरं शास्त्रोक्तं प्रमाणं देहमानं यस्य स तथा तं, पिच्छइ प्रेक्षते इदं क्रियापदं पश्यतीति इभं । इत्यनेन पूर्वं योजितं, पुनः कीदृशं ? सजलघणेत्यादि-सजलो जलपूर्णस्तस्य हि ध्वनिर्गंभीरो भवति |
पिच्छइ सजलघणविपुलजलहरगजिअगंभीरचारुघोस
इभं सुभं सवलक्षणकयंबिअं वरोरं ॥१॥३३॥ एवंविधो यो घनो निविडो विपुलजलधरो महामेघस्तस्य यद्गर्जितं तद्वद्गंभीरश्चारुर्मनोहरश्च घोषः | शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः, पुनः कीदृशं ? सुभं शुभं प्रशस्यं, पुनः | कीदृशं ? सवलक्खणकयंबियं सर्वलक्षणानां कदंब समूहस्तजातं यस्य स तथा तं, पुनः कीदृशं ! वरोरुं | वरः प्रधामः उरुर्विशालश्च एवंविधं हस्तिवरं प्रथमे खप्ने त्रिशला पश्यति ॥ १ ॥ ३३ ॥