________________
||सुगंधवरेत्यादि-सुगंधेन वरेण प्रधानेन कुसुमेन चूर्णेन च वासयोगेन यः शय्याया उपचारः पूजा तेन कलिते, शेषं सुगमं, नवरं पुत्वरत्तावरत्तत्ति मध्यरात्रे ॥ ३२ ॥ तएणं ततः सा त्रिशला क्षत्रियाणी
तूलतुल्लफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए पुवरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा । तंजहा। “गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९ । पउमसर १० सागर ११ विमाण १२ भवण १२ रयणुच्चय १३ सिहिं च १४॥३२॥
तएणं सा तिसला खत्तिआणी तप्पढमयाए चउदंतमूसिअगलियविपुलतप्पढमयाए तत्प्रथमतया प्रथमं इत्यर्थः इभं स्वप्ने पश्यतीति संबंधः, अत्र प्रथमं इभं पश्यतीति यदुक्तं तत् बह्वीभिर्जिनजननीभिस्तथादृष्टत्वात्पाठानुक्रममपेक्ष्योक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं,