________________
देवे निद्राणेऽपि न ते निवारितास्ततः क्षणात् प्रबुद्धेन वासुदेवेन आः ! पाप ! मदाज्ञापालनादपि तव गीतश्रवणंप्रियं ! लभस्व तर्हि तत् फलं इत्युक्त्वा तत्कर्णयोस्तप्तं त्रपुं क्षिप्तवान्, तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान्, एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे (१९) भवे सप्तमनरके | नारकतया उत्पन्नस्ततो निर्गत्य विंशतितमे भवे (२०) सिंहस्ततो मृत्वा एकविंशतितमे (२१) भवे चतुर्थन|रके, ततो निर्गत्य बहून् भवान् भ्रांत्वा द्वाविंशे भवे (२२) मनुष्यत्वं प्राप्योपार्जितशुभकर्मा त्रयोविंशे भवे (२३) मूकायां राजधान्यां धनंजयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव, स च पोहिलाचार्यसमीपे दीक्षां गृहीत्वा वर्षकोटिं यावत्परिपाल्य चतुर्विंशतितमे भवे (२४) महा शुक्रे देवस्ततश्युतः पंचविंशे भवे (२५) इहैव भरतक्षेत्रे छत्रिकायां नगर्यां जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पंचविंशतिवर्षलक्षायुर्नदनो नाम पुत्रः, स च पोट्टिलाचार्यपार्श्वे चारित्रं गृहीत्वा यावज्जीवं मासक्षपणैर्विंशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य मासिकया संलेखनया मृत्वा षड्विंशतितमे भवे (२६) प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपम -