________________
कल्पसूत्र
सुबोधि० ॥४३॥
युर्भारद्वाजनामा विप्रस्त्रिदंडी भूत्वा मृतः (१२), त्रयोदशे भवे माहेंद्रकल्पे मध्यस्थितिः सुरः (१३), ततश्रयुतः कियत्कालं संसारे भ्रांत्वा चतुर्दशे भवे राजगृहे चतुस्त्रिंशल्लक्षपूर्वायुः स्थावरो नाम विप्रस्त्रिदंडी भूत्वा मृतः (१४), पंचदशे भवे ब्रह्मलोके मध्यस्थितिको देवः (१५), षोडशे भवे कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः, संभूतिमुनिपादांते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थं गतस्तत्र एकया धेन्वा तपःकृशत्वाद्भुवि पातितः, तत् दृष्ट्वा च परिणयनार्थं तत्रागतेन विशाखनंदिनाम्ना पितृव्यपुत्रेण हसितः सन् कुपितस्तां धेनुं शृंगयोर्गृहीत्वा आकाशे भ्रमितवान्नि - दानं चैवं कृतवान्, यदनेन उग्रतपसा भवांतरे भूयिष्ठवीर्यो भूयासं (१६), ततो मृत्वा सप्तदशे भवे महाशुक्रे उत्कृष्टस्थितिः सुरः(१७),ततच्युतोऽष्टादशे (१८) भवे पोतनपुरे स्वपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पत्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिपृष्ठनामा वासुदेवस्तत्र बाल्येऽपि प्रतिवासुदेवशालिक्षेत्रविघ्नकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालकं आदिष्टवान् यदस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयास्तेन च गीतरसासक्तेन वासु
द्वितीयः
क्षणः
॥२॥
॥४३॥