________________
तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियवा, न समायरियवा । तं जहा । स चित्तनिक्वणया, सचित्तपेहण्या, कालाइकमे, परववदेसे, मच्छरिया । १२ ॥ ५६ ॥
' अहासंविभागस्स ति ' अहत्ति यथासिद्धस्य - स्वार्थ निवर्तितस्येत्यर्थः, अशनादेः समिति-सङ्गतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं साधवे दानद्वारेण विभागकरणं यथासंविभागः तस्य || 'सचित्तनिक्खेवणया' इत्यादि सचित्तेषु - वीद्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणम् १ । एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानम् २ | कालातिक्रमः कालस्य - साधुभोजनकालस्यातिक्रम-उल्लङघनं कालातिक्रमः, अयमभिप्रायः - "कालमृनमधिकं वा ज्ञात्वा साधवो न ग्रहिष्यन्ति ज्ञास्यन्ति च यथायं ददाति " एवं विकल्पती दानार्थमभ्युत्थानमतिचार इति ३ । तथा परव्यपदेशः " परकीयमेतत्तेन साधुभ्यो न दीयते " इति साधुसमक्षं भणनं, “जानन्तु साधवो यथस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्याद्" इति साधुसम्प्रत्ययार्थम् । अथवा "अस्माद्दानान्मम मात्रादेः पुण्यमस्तु " इति भणनमिति ४ । मत्सरिता " अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वातोऽहमपि ददामि " इत्येवंरूपो दानप्रवकविकल्प मत्सरिता ५ । एते चातिचारा एव न भङ्गा, दानार्थमभ्युत्थानपरिणतेश्च दृषितत्वाद्भङ्गस्वरूपस्य ने हैवमभिधानाद्, यथा- "दाणन्तराय दोसा न देइ दिज्जन्तयं च वारेइ। दिण्णे वा परितप्पड़, इति किवणत्ता भवे भङ्गो ॥१॥" आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेutsferags:, केवलमिह भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः । सम्प्रदायान्नवपदादिषु तथा दर्शनात् । "जारिसओ जड़ओ, जह जाय जह व तत्थ दोसगुणा । जयणा जह अइयारा. भङ्गा तह भावणा नेया || १ ||" इत्यस्या आवश्यकचूण्य पूर्वगतगाथाया दर्शनादतिचारशब्दस्य सर्वभङ्गे प्रायोऽप्रसिद्धत्वाच्च । ततो नेदं शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति तथा य एते प्रतिव्रतं पञ्च पञ्चाति