SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पाश्वनाथचरित्रलेशः ३०७-३२१ स्तस्थौ, खामी तु समतानिधिः!॥३०७॥ तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् ॥ जातकोपो नागनाथः, साक्षेपमिदमभ्यधात् ॥३०८॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? ॥ दयालोरपि दासोऽहं, सहिष्ये न यतः परम् ! ॥३०९ ॥ ज्वलन्महोरगः पापा-निषेधुं खामिनाऽमुना ॥ तदाऽदर्यत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१ ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोर्विना द्विषन्नद्य, न भविष्यसि पाप रे ! ॥३११॥ तदाकर्ण्य वचो | मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ॥ ३१२ ॥ दध्यौ च चकितः शक्तिरियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३॥ किं चायं भगवान्मुष्ट्या, पेष्टुं वज्रमपि क्षमः ॥क्षमया क्षमते सर्व, भोगीन्द्राद्धीस्तथापि मे ॥ ३१४ ॥ न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः ॥ तदे. नमेव शरणी-करोमि करुणाकरम् ॥ ३१५ ॥ ध्यात्वेति मेघ संहृत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदःक्षमखेति, प्रोच्यागाच खमास्पदम् ॥३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा-ऽनुपसर्ग प्रणम्य च ॥ निजं स्थानं ययौ प्रात-जिनोऽपि व्यहरत्ततः॥ ३१७ ॥ छद्मस्थत्वेन चतुर-शीतिमह्नां विहृत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययो प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राश्चोपेत्य समव-सरणं चक्रिरेऽखिलाः ॥ ३१९ ॥ पूर्वसिंहासने तत्रा-सीने श्रीपार्श्वपारगे॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः॥३२०॥ यथास्थानं निषण्णेषु, सुरासुरनरेष्वथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥३२१ ॥ ज्ञात्वा ज्ञानोदयं पार्थ-प्रभोरुद्यानपाल १२ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy