SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥९८॥ त्रयोविंशमध्ययनम्. पाश्वनाथचरित्रलेशः ३२२-३३२ कात् ॥ तदर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ॥ ३२२ ॥ श्रीअश्वसेनभूपोऽपि, वामादेव्या समन्वितः॥ गत्वा कृतस्तुतिनति-ईर्म शुश्राव शुद्धधीः ॥ ३२३ ॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः ॥ बुद्धाः पर्यव्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ॥ ३२४ ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामिदत्तपदयात् ॥ ३२५॥ राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ वामादेव्या प्रभावत्या, चान्वितः प्रात्रजत्तदा ॥ ३२६ ॥ पद्मावती-पार्थयक्ष-वैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्थः, श्रीपार्थो व्यहरत्ततः ॥ ३२७॥ सहस्राः षोडशीणां, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ ३२८ ॥ श्रावकाणां लक्षमकं, चतुष्पष्टिसहस्रयुक् ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२९ ॥ दिनैश्चतुरशीयोनामार्हन्त्ये वर्षससतिम् ॥ विभोर्विहरतः संघो-ऽभवदेवं चतुर्विधः ॥ ३३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्री व्यधाद्विभुः॥प्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ॥ ३३१ ॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः संयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः ॥ शक्राद्यैश्च : सुरासुरेश्वरवरैः श्रीपार्थविश्वेशितु-श्चकेऽभ्येत्य महोदयातिमहिमा माहात्म्यवारांनिधेः ॥ ३३२ ॥ इति श्रीपार्थनाथकथा । इत्थं प्रसङ्गतः श्रीपार्थनाथचरितमभिधाय प्रस्तुतं व्याख्यायते १ सदाधिष्ठितपार्श्वः श्री-पार्थोपि व्यहरत्ततः ।। इति "घ" पुस्तके ।। UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy