SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ९९ ॥ त्रयोविंशमध्ययनम्. केशिगौतमसंवादः गा २-४ मूलम् तस्स लोगप्पईवस्स, आसिसीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥ ___ व्याख्या-'केसित्ति' केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयोझानचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्ति. कालं यावदवस्थानानुपपत्तेः ॥२॥ मूलम्-ओहिनाणसुए बुद्धे, सीससंघसमाउले। गामाणुगामं रीयंते, सावत्थिं नगरिमागए ॥३॥ व्याख्या-'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, प्रामानुप्रामं रीयमाणो विहरन् ॥ ३॥ मूलम्-तिदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ ४॥ ___ व्याख्या-'तम्मित्ति' तस्याः श्रावस्त्याः , नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके खाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् , तत्र तिन्दुकोद्याने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाह १ 'शिष्यसंघसमाकुल: ' नास्त्ययं पाठः “घ” संज्ञकपुस्तके ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy