SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ९६ ॥ त्रयोविंशमध्ययनम् पार्श्वनाथचरित्रलेशः २९४-३०६ यमदोर्दण्डवचण्डा-नैकान्नेत्रविषानहीन् ॥ २९४ ॥ उत्कटैः कण्टकैः स्वास्थ्य-प्रश्वकान् वृश्चिकांस्तथा ॥ भलकशूकरादींश्च, श्वापदानापदां विधीन् ॥ २९५ ॥ ज्वालामालाकरालास्या-मुण्डमालाढयकन्धरान् ॥ प्रेतान् विश्वानभिप्रेता-कारांश्च विचकार सः ॥ २९६ ॥ [त्रिभिर्विशेषकम् ] प्रभोध्योनं चलयितुं, तेऽपि न प्रभवोऽभवन ॥ वज्रं भेत्तुमिवोइंश-कीटिकामत्कुणादयः!॥२९७॥ ततः कुद्धोऽधिकं गर्जा-विद्युद्याप्तदिगन्तराम् ॥ मेघमाली मेघमाला, विचके व्योनि भीषणाम् ! ॥ २९८ ॥ नीरैरेनं प्लावयित्वा, हन्म्यहं पूर्वविद्विषम् ॥ ध्यायन्निति ससंरम्भः, प्रारेभे सोऽथ वर्षितुम् ॥ २९९ ॥ धाराभिमुष्टिमुशल-यूपाकाराभिरुश्चकैः ॥ वर्षे वर्षे व्यधादेकार्णवामिव वसुन्धराम् ॥३०॥ अभूदाकण्ठमुदकं, तदा पार्थप्रभोः क्षणात् ॥ तदा तदास्यं तत्राभा-त्पनं पमहदे यथा ॥ ३०१॥ नासापा पार्श्वभर्तः, पयो यावदुपाययौ ॥ चचाल विष्टरस्ताव-द्धरणस्योरगप्रभोः ॥ ३०२ ॥ सोऽथ ज्ञात्वाऽवधेः खामी-वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्ननाम तम् ॥ ३०३ ॥उन्नालं नलिनं न्यस्य, खामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्थादिकं प्यधात् ॥ ३०४ ॥ तन्मौलौ तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः ॥ ध्यानलीनमनाः खामी, तत्र तस्थौ सुखं ततः ॥ ३०५ ॥ नागराजमहिष्योऽपि, नृत्यं चकुः प्रभोः पुरः॥ वेणुवीणामृदंगादि-ध्वनिव्याप्तदिगन्तरम् ॥ ३०६ ॥ भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे ॥ निर्विशेषमना १ छेदकान् ।। यो। चचाल ब ननाम तम् लौ तु व्यधा UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy