SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १३॥ त्रयोविंशमध्ययनम्पार्श्वनाथचरित्रलेश: | २५४-२६७ सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ॥ इह त्वागां महाराज!, त्वां प्रार्थयितुमात्मना ॥ २५४ ॥ नाना प्रभावती मेऽसौ, सुता श्रीपाचहेतवे ॥ गृह्यतां देव ! याचा मे, मा भून्मोघा त्वयि प्रभौ ॥ २५५ ॥ राजा जगौ कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ॥ २५६ ॥ इत्युदित्वा समं तेन, गत्वा पार्थान्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ २५७ ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे ! त्वया ॥२५८ ॥ इत्यश्वसेनोर्वीशेन, पार्थः साग्रहमीरितः ॥ भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ २५९ ॥ क्रीडागिरिसरिद्वापी-वनादिषु तया समम् ॥ रममाणो विभुर्नित्य-मतिचक्राम वासरान् ॥२६०॥ गवाक्षस्थोऽन्यदा खामी, पुरीं पश्यन्ददर्श सः ॥ बहिर्यातो बहून्पुष्प-पटलीपाणिकान् जनान् ॥२६१॥ इत्यपृच्छच्च पार्श्वस्थान् , पार्श्वः कोऽद्य महो महान् ? ॥ पुर्या निर्याति यदसौ, जवनः सकलो जनः ॥ २६२॥ ततः कोऽपि जगौ खामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽस्तीह, कठाहस्तापसाग्रणीः ॥ २६३ ॥ तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्गिरम् ॥ द्रष्टुं तत्कौतुकं खामी, तत्रागात्सपरिच्छदः ॥ २६४ ॥ पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः ॥ वह्निकुण्डक्षिप्तकाष्ठे, दह्यमानाहिमैक्षत ॥ २६५ ॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-ऽप्यस्याऽज्ञानं यन्न दयागुणः ! ॥२६६ ॥ विना चक्षुर्मुखमिष, धर्मः कीरकृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव !॥ २६७ ॥ तदाकर्ण्य UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy