________________
उत्तराध्ययन ॥ ९२ ॥
त्रयोविंशमध्ययनम्.
(२३) पाश्वेनाथ. चरित्रलेशः २४०-२५३
भूयो नत्वैवमब्रवीत् ॥ २३९॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमख मे ॥ अभयं देहि भीतस्य, प्रसीदादत्व मे रमाम् ! ॥ २४०॥ ऊचे श्रीपार्श्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! ॥ मुंश्व राज्यं निजं मास्म-भैषीमैवं कृथाः पुनः ! ॥ २४१॥ तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् ॥ कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ॥ २४२॥ अथाज्ञया प्रभोर्गत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वाती प्रीतचेतसे ॥ २४३ ॥ ततः प्रभावती कन्या-मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ॥ २४४ ॥ यथा स्वयमिहागत्या-ज्वग्रहीमा जगत्पते । ॥ परिणीय तथा पुत्री-मिमामनुगृहाण मे ॥ २४५ ॥ चिरकालीनरागासौ, त्वयि नान्यं समीहते ॥ तन्निसर्गकृपालोऽस्यां, विशेषात्सकृपो भव ॥ २४६ ॥ खाम्यूचेऽहं नृप ! त्रातुं, त्वामागां पितुराज्ञया । नतद्वोढुं तव सुतां, तदलं वार्तयाऽनया ॥ २४७॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्विरा ॥ अश्वसेनोपरोधात्त-मानयिष्याम्यदोऽमुना ॥ २४८ ॥ तेनेति ध्यायता साकं, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा खामी, व्यसृजद्यवनं नृपम् ॥ २४९ ॥ विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअश्वसेनं, नन्तुमेष्याम्यहं विभो ! ॥ २५० ॥ तत ओमित्युक्तवता, श्रीपार्श्वखामिना समम् ॥ वाराणसी नृपः सोऽगा-सहादाय प्रभावतीम् ॥ २५१॥ तातं नत्वा निजं सौधं, गते पार्थे प्रसेनजित् ॥ प्रभावत्या समं गत्वाऽ-श्वसेननृपमानमत् ॥२५२ ॥ तं चाश्रसेनोऽभ्युत्थाय, समालिंग्य च निर्भरम् ॥ कुशलं ते खयं चेह, किमागा इति पृष्टवान् ? ॥२५३॥
UTR-3