SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पाश्वेनाथचरित्रलेशः १९६-२१० किन्नरीभिटीयमानमदोऽशृणोत् ॥१९६॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताचिरम् ॥ रूपलावण्यतेजोभि-निर्जयनिर्जरानपि ! ॥१९७॥ तदाकाभवत्पार्थे, सानुरागा प्रभावती ॥ क्रीडां ब्रीडां च संत्यज्य, तद्गीतमशृणोन्मुहुः ॥ १९८ ॥ ततोऽनुरक्ता सा पार्थे, वयस्याभिरलक्ष्यत ॥रागो रागिषु न छन्न-स्तिष्ठत्यम्भसि तैलवत् ॥१९९॥ चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, कापि नाधिगता सुखम् ॥ २०॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पार्श्वमेवान्तः, परब्रह्मव योगिनी ॥ २०१॥ ज्ञात्वा पार्थेऽनुरक्तां तां, पितरौ तत्सखीमुखात् ॥ मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ २०२ ॥ इत्यूचतुश्च प्रेष्यैना-मधिपाच खयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ २०३ ॥ तनिशम्य चरैर्नेक-देशाधीशो महाबलः ॥ इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः ॥ २०४ ॥ कथं पार्थाय हित्वा मां, सुतां दाता प्रसेनजित् ? ॥ प्रसह्यापि ग्रहीष्ये तां, खयं दास्यति चेन्न मे ॥२०५॥ इत्युदीयोंशु पवन-जवनो यवनो नृपः ॥ एत्यारुणत्पुरं विष्वग, बलैः प्राज्यैः कुशस्थलम् ॥ २०६ ॥ प्रवेशनिर्गमौ तत्रा-भूतां कस्यापि नो तदा ॥रोलम्बस्येव रजनीमुखमुद्रितनीरजे ॥२०७॥ पुरुषोत्तमनामाहं, प्रहितो भूभूजा ततः ॥ वात वक्तुमिमां रात्रौ, निर्गत्यात्रागमं प्रभो!॥ २०८ ॥ परंतपातः परं तु, यत्कर्त्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ॥२०९॥ तन्निशम्याश्वसेनो:-कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥२१०॥ तं भम्भाध्वनि UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy