SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. (२३) पाश्वनाथचरित्रलेशः २११-२२४ माकर्ण्य, किमेतदिति चिन्तयन् ॥ पितुः पार्श्वमगात्पार्थो, नत्वा चैवमवोचत ॥२११ ॥ तरखी कतरो देवासुराणां चाऽपराध्यति ? ॥ स्वयं श्रीतातपादानां, यदर्थोयमुपक्रमः ॥ २१२ ॥ अश्वसेननृपोङ्गुल्या, दर्शयन्नागतं नरम् ॥ कुशस्थलपति त्रातुं, यवनं जेयमब्रवीत् ॥ २१३ ॥ पार्श्वः प्रोचे तृणे पर्शो-रिव तस्मिन्नकीटके ॥ सुरासुरजितां तात-पादानां नोद्यमोऽहति ! ॥२१४ ॥ तदादिशत मां पूज्याः, सौधं भूषयत खयम् ॥ मत्तोऽपि भावि मत्तस्य, तस्य दापसर्पणम् ! ॥२१५॥ ततो राजा बलं सूनो-र्विदन् विश्वत्रयाऽधिकम् ॥ प्रत्यपद्यत तद्वाक्यं, ससैन्यं व्यसृजच तम् ॥ २१६ ॥ आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः ॥ एत्य नत्वा जगन्नाथं, रथोत्तीर्णो व्यजिज्ञपत् ॥ २१७ ॥ प्रभो ! विज्ञाय शक्रस्त्वां , क्रीडयापि रणोद्यतम् ॥ भक्त्या रथममुं प्रेषी-प्रसद्य तमलङ्कुरु ॥२१८॥ नानाशस्त्राढ्यमस्पृष्ट-भूपृष्ठं तं रथं ततः ॥ आरुह्य तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ॥ २१९ ॥ अन्वायान्या भूमिगायाः, सेनायाः कृपया प्रभुः ॥ प्रयाणैर्लघुकैर्गच्छन् , क्रमात्माप कुशस्थलम् ॥ २२० ॥ तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् ॥ स्वामिना प्रहितो दूतो, गत्वा वनमित्यवक् ॥२२१॥ राजन् ! श्रीपार्श्वनाथस्त्वां, मदास्येनादिशत्यदः ॥ शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ॥ २२२ ॥ अहं हि तातमायान्तं, निषिध्यानेन हेतुना ॥ इहायातोऽस्मि तद्याहि, खस्थानं चेत्सुखस्पृहा ! ॥ २२३ ॥ अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् ? ॥ अश्वसेनश्च पार्थश्च, कियन्मानं ममाग्रतः ! ॥ २२४ ॥ तत्पार्थ एव खं धाम, यातु पातु वपुर्निजम् ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy