SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ८८ ॥ १५ १८ २१ २४ शक्रेण विहिता - मनुष्ठे नित्यमापिवन् ॥ ववृधे स जगन्नाथो, जगत्पाथोधिचन्द्रमाः ॥ १८२ ॥ [ युग्मम् ] क्रमाच्च यौवनं प्राप्तः, कामिनीजनकार्मणम् ॥ नवहस्तप्रमाणाङ्गः प्रभुः प्रामुमुदजगत् ॥ १८३ ॥ अन्येद्युरश्वसेनोf - नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि पुमान्नत्वैव मत्रवीत् ॥ १८४ ॥ खामिन्निहास्ति भरते, कुश - स्थलपुरं पुरम् || राजा प्रसेनजि-तत्र, विद्यते हृद्यकीर्त्तिभूः ॥ १८५ ॥ तस्य प्रभावतीसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुच्चित्य, रचितेव विरञ्चिना || १८६ ॥ याति दास्यं तदास्यस्य, शशी तन्नेत्रयोर्मृगः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥ १८७ ॥ आदर्शो दर्शनीयत्वं, नाक्षुते तत्कपोलयोः ॥ धुरां तदधरस्यापि न धत्ते हेमकन्दलः ! ॥ १८८ ॥ कुण्ठो वैकुण्ठकम्बुस्तत्कण्ठ सौन्दर्यशिक्षणे ॥ स्वर्ण कुम्भोऽपि नो दक्ष-तद्वक्षोजरमाग्रहे ! ॥ १८९ ॥ नालमालिंगितुं पद्म - नालं तद्दोर्लताश्रियम् ॥ न तत्पाणिच्छविलयं, लभन्ते पलवा अपि ! ॥ १९० ॥ तन्मध्यलीलामध्येतुं, बालिशः कुलिशोऽपि हि ॥ न तन्नाभिसनाभित्व-मावर्त्तः शिक्षितुं क्षमः ! ॥ १९१ ॥ तदारोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भं तदूरुसुषमार्जने ! ॥ १९२॥ नैणिजंघापि तजंघा - श्री संघातनसोद्यमा ॥ नारविन्दानि विन्दन्ति, पद्मां तत्पादपद्मयोः ! ॥ १९३॥ कलां नाञ्चति तत्काय- कान्तेः काञ्चन काञ्चनम् ॥ तल्लावण्यगुणं वीक्ष्या - ऽप्सरसः सरसा न हि ! ॥ १९४ ॥ तां वीक्ष्य तादृशीं योग्य- जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास कुमारान्नाप तं पुनः ॥ १९५ ॥ सा सखीभिः सहान्येद्यु- र्गतोद्यानं प्रभावती ॥ गीतं स्फीतं त्रयोविंश मध्ययनम्. (२३) पार्श्वनाथचरित्रलेशः १८२-१९५ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy