SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः १६७-१८१ सुधालिसाः, प्रायः सर्वगृहा अपि !॥ १६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशकन्ताश्माम्बुशेषौ,रोहणाद्रिपयोनिधी ॥ १६९ ॥ अश्वसेनाभिधो विष्वक्-सेनसन्निभविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः॥१७०॥ गुणैरवामा वामावा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, स्वप्राणेभ्योऽपि वल्लभा ॥ १७१॥ सुवर्णबाहुजीवोऽथ, व्युत्वा प्राणतकल्पतः । कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ १७२ ॥ तदा सा सुमुखी कुम्मिप्रमुखान् विशतो मुखे ॥ चतुर्दश महाखानान्, ददर्श शयिता सुखम् ॥ १७३ ॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥१७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम्॥ | काले च सुषुवे पुत्रं, नीलघुतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशहिकुमार्यः, सूतिकर्माणि चक्रिरे ॥ १७६ ॥ ज्ञात्वा जन्मावधेस्तस्य, शक्राद्या वासवा अपि ॥ जन्माभिषेककल्याणं, | सुमेरौ विधिवद्यधुः ॥ १७७ ॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-बपि माता खपार्थतः ॥ ददर्श सर्प सर्पन्तं, द्रुतं भर्तुरुवाच च ॥ १७९॥ प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा ॥ तच्च स्मृत्वा नृपः सूनोः, पार्थ इत्यभिधां व्यधात् ॥ १८॥ लाल्यमानोऽथ धात्रीभि-रादिशाभिर्विडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ १८१॥ सुधां UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy