SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम् पाश्वनाथचरित्रलेशः १०९-१२३ कोऽत्र वः १ ॥ इत्युचैरुचरन्प्रादु-रासीद्राजा तयोस्तदा ॥१०९॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ ११ ॥ वज्रबाहुसुते वज्रि-जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपीश्वरः कर्तुं, तापसानामुपद्रवम् ॥ १११ ॥ मुग्धासौ तु कजभ्रान्त्या, षट्पदाद्दशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ॥ ११२ ॥ त्वं पुनः कामजिदूपः, कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भपः, खयं खं वक्तुमक्षमः ॥११३ ॥ सुवर्णबाहुभूजाने-मां जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया ॥११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ।। रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ॥११५॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥११६ ॥ तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः ॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विड्वरो महान् ! ॥ ११७ ॥ रत्नावली विमां बाला-मादायागादिहाश्रमे । निजभ्रातुः कुलपते-लवाहस्य मन्दिरम् ॥ ११८ ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराङ्कर-जीवनं चाप यौवनम् ॥ ११९ ॥ अत एवर्षिकन्यानां, कर्मादः क्रियतेऽनया॥ यादृशः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ १२० ॥ साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ ॥ पद्मायाः | कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ १२१॥ ऊचे साधुरिहायात-श्चक्रभृद्वाजिना हृतः ॥ सुवर्णबाहु व्यस्याः, विवोढा वज्रबाहुजः ॥ १२२ ॥ ततो दध्यौ मुदा मापो, हयेनोपकृतं मम ॥ हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy