________________
उत्तराध्ययन
त्रयोविंशमध्ययनम्.
पाश्वेनाथचरित्रलेशः ९५-१०८
ग्रैवेयकात्ततः ॥ चतुर्दशमहाखा-सूचितोऽभूत्सुतस्तयोः ॥ ९५ ॥ सुवर्णबाहुरित्याहां, व्यधात्तस्योत्सवैपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाजनम् ॥ ९६ ॥ धात्रिभिरिव धात्रीशै-स्तत्सौभाग्यवशीकृतैः ॥ अङ्कादकं नीयमानः, स व्यतीयाय शैशवम् ॥ ९७ ॥ सुगमाः प्राग्भवाभ्यासा-दादाय सकलाः कलाः ॥ यौवनं प्राप ललना नेत्रालिनलिनीवनम् ॥ ९८॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं वर्णबाहुश्चा-ऽभुक्त बालामिव क्षमाम् ॥९९ ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हृत्वाऽरण्यानी, वक्रशिक्षितवाजिना ॥१०॥ तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्वयं हयः॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ १.१॥ स्वयं स्त्रात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् ॥ ततः पुरो ब्रजन् राजा-ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो-ऽस्फुरदक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भावी-त्यन्तभूपोऽप्यचिन्तयत् ॥ १०३ ॥ पुरो ब्रजंश्च सोडपश्य-तत्रैकां मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या-ऽनुगतां गजजिद्गतिम् ॥ १०४ ॥ दुमान्तरस्थो निध्यायं-स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ॥१०५॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ क्वाऽयं रूपगुणोऽमुष्याः, वेदं कर्मतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं, तच्छासामोदमोहितः ॥ आस्ये तस्याः पपाताज-भ्रमण भ्रमरो भ्रमन् ! ॥ १०७ ॥ भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा ॥ विना सुवर्णवाहुं त्वां, कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णवाही पाति क्षमा-मुपद्रवति
UTR-3