________________
उत्तराध्ययन
त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः ५२-६५
*RANA
दृष्ट्वा तदद्भुतं पूर्व-नष्टास्ते सार्थिका अपि ॥ उपेत्य तं यतिं नत्वा, श्राद्धधर्म प्रपेदिरे ॥५२॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे रढोऽभवत् ॥ अष्टापदेऽहतो नत्वा, मुनिरप्यन्यतोऽगमत् ॥५३॥ सोऽपि स्तम्बरमश्राद्ध-श्वरन्मुनिवदीर्यया ॥ षष्ठादिकं तपः कुर्वन् , शुष्कपत्रादिपारणः ॥ ५४ ॥ भानुभानुभिरुत्तसं, पल्वलादिजलं पिबन् । तस्थौ शुभाशयस्त्यक्त-वशाकेलिरसोऽनिशम् ! ॥ ५५॥ [ युग्मम् ] ___ इतश्च कमठोऽशान्त-कोपो हत्वापि सोदरम् ॥ विन्ध्याटव्यामभून्मृत्वा-ऽत्युत्कटः कुक्कुटोरगः ॥ ५६ ॥ स भ्रमनेकदाऽपश्य-मरुभूतिमतङ्गजम् ॥ प्रविशन्तं सरस्यम्भः-पातुं तपनतापितम् ॥ ५७ ॥ सोऽनेकपस्तदा पङ्के-ऽमजदेवनियोगतः ॥ कुक्कुटाहिः स तं सद्यो, ददंशोडीय मस्तके ॥५८॥ ज्ञात्वाऽन्तं तद्विषावेशा-द्विधायाऽनशनं द्विपः॥ वेदनां सहमानस्तां, स्मरन् पञ्चनमस्क्रियः॥ ५९॥ सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहस्रांशु-सहस्रांशुजयी रुचा ॥ ६॥ [युग्मम् ] मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ । बभूव नारकः सप्तदशसागरजीवितः ॥ ६१॥ ____ "इतश्च" जंबूद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् ॥ वैताढ्याद्रौ पुरी नाना, तिलका विजितालका ॥२॥ नाम्ना विद्युद्गतिस्तत्रा-ऽभवत्खेचरभूधरः ॥राज्ञी तु तस्य कनक-तिलका कनकच्छविः ॥ ६३॥ सोऽथ जीवः सामयोने-रष्टमखर्गतश्युतः ॥ जज्ञे किरणवेगाव-स्तयोः सूनुर्महाबलः ॥६४॥ क्रमादृद्धिं गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ॥६५॥ राज्ये स चान्यदा न्यस्तः, पित्रा खीकु
UTR-3