________________
उत्तराध्ययन ॥ ७८ ॥
त्रयोविंशमध्ययनम्.
(२३) पाश्वनाथचरित्रलेशः ३६-५१
यथा॥तथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः१ ॥३६॥ ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः॥राज्ये न्यस्याङ्गजं पार्थे, सद्गुरोश्चाददे ब्रतम् ॥३७॥ क्रमाच श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् ॥ समं सागरदत्तेभ्य-सार्थेनाष्टापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽपृच्छत् ,क्क वो गम्यं ? प्रभो! इति ॥ गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ॥ ३९ ॥ सार्थेशः पुनरप्यूचे, धर्मः को भवतामिति ? ॥ ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ॥४॥ तञ्चाकर्ण्य सकण्र्णो द्राक्, श्राद्धत्वं प्रत्यपादि सः॥ सुक्षेत्रे बीजवद्दक्षे, ह्युपदेशो महाफलः ! ॥ ४१ ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥ ४२ ॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो-ऽम्भोदोऽम्भोधाविवापिवत् ॥४३॥ करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच्च, तं सार्थ तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोऽधावत् , कुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ तं चावबुध्य बोधाई-मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ त-मार्गेऽचल इवाचलः ॥४६॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्श्वमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥४७॥ उत्सर्गपारयित्वाऽय, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरुभूतिभवं न किम् ? ॥४८॥ मां चारविन्दभूपालं, न कि जानासि ? सन्मते ! ॥ प्राग्भवे चाहतं श्राद्ध-धर्म किं व्यस्मरः ? कृतिन् ! ॥ ४९ ॥ इति तद्वचसा जाति-स्मरणं प्राप्य स द्विपः॥उदश्चितकरो भूमि-न्यस्तमूर्द्धानमन्मुनिम् ॥५०॥ तेनोक्तं साधुना श्राद्ध-धर्म च प्रतिपद्य सः ॥ नत्वा मुनि गुणास्थानं, स्वस्थाने खस्थधीर्ययौ ॥५१॥
UTR-3