________________
उत्तराध्ययन ॥ ७७ ॥
१२
॥ २० ॥ मरुभूतिर्गतोऽस्तीति निश्शंकं रममाणयोः ॥ वसुन्धराकमठयो - स्तमन्यायं ददर्श च ! ॥ २१ ॥ अक्षमोऽपि स तद्रष्टुं भीरुर्लोकापवादतः ॥ चकार न प्रतीकारं, निरगाञ्च ततो द्रुतम् ॥ २२ ॥ गत्वा चोवाच तत्स-मरविन्दमहाभुजे ॥ क्ष्मापोऽप्यादिक्षदारक्षां स्तन्निर्वासयितुं पुरात् ॥ २३ ॥ तेऽपि गईभमारोप्य, रसद्विरसडि - ण्डिमम् ॥ शरावजीर्णपन्नद्धा - मालामालितकन्धरम् ॥ २४ ॥ उच्चैरुद्घोषिताकार्य, रक्षामूत्रविलेपनम् ॥ कमठं भ्रमयित्वान्तर्नगरं निरवासयत् ! ॥ २५ ॥ [ युग्मम् ] एवं विडम्बितो जात-वैराग्यो विपिनं गतः ॥ कमठस्तापसीभूया -ऽऽरेमे बालतपो भृशम् ॥ २६ ॥ मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रज विडम्बकम् ! ॥ २७ ॥ गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यस्मार्ष हि रुषाकुलः ! ॥ २८ ॥ क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ २९ ॥ कमठो दुर्धियामेक-मठो दुष्कर्मकर्मठः ॥ विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ॥ ३० ॥ मूर्ति प्रणमतो भ्रातु - स्तदोत्क्षिप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याग्नेः प्रदीपनम् ! ॥ ३१ ॥ [ युग्मम् ] तत्प्रहारक्षुण्णमौलि-र्मृत्वाऽऽर्त्तध्यानयोगतः ॥ मरुभूतिरभूद्विन्ध्याचले बूथाधिपो द्विपः ॥ ३२ ॥
इतश्च शरदि क्रीडन्, समं स्त्रीभिर्गृहोपरि ॥ अरविन्दनृपोऽपश्य-त्क्षणालच्धोदयं घनम् ॥ ३३ ॥ शक्रचापाचितं तं च गर्जन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युचे - वर्णयामास भूधवः ! ॥ ३४ ॥ मेघः स तु क्षणाधोनि, व्यानशे तैलवज्जले || क्षणाच्चाऽपुण्यवाञ्छाव - द्वातोद्धूतो व्यलीयत !॥ ३५ ॥ ततो दध्यौ नृपो दृष्ट- नष्टोऽसौ जलदो
त्रयोविंशमध्ययनम्. पार्श्वनाथ
चरित्रलेशः
२१-३५
UTR-3