SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ अथ त्रयोविंशमध्ययनम् ॥ त्रयोविंशमध्ययनम्. गा १ अहम् ॥ उक्तं द्वाविंश, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेषामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते। इतिसम्बन्धस्यास्येदमादिसूत्रं-- मूलम्-जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सवण्णू, धम्मतित्थयरे जिणे ॥१॥ व्याख्या--जिनो रागद्वेषादिजेता पार्थ इति नाम्नाभूदिति शेषः, अर्हन् विश्वत्रयविहितपूजाहः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा । स च छनस्थोऽपि स्यादित्याह सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरो जिनः सकलकर्मजेता, मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥१॥ अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, तथा हि___ अत्रैव भरते वासा-वसथे सकलश्रियाम् ॥ गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ॥ १॥ नीतिवल्लीघनस्तत्र, गुणालङ्कृतभूघनः ॥ जिनधर्मारविन्दालि-ररविन्दोऽभवन्नृपः ॥ २॥ लब्धशास्त्राधिरोधास्त-त्पुरोधा जिनधर्मवित् ॥ विश्वभूतिरभूत्तस्य, भार्या चानुद्धराभिधा ॥३॥ सुतौ तयोश्च कमठ-मरुभूती बभूवतुः ॥ वरुणावसुन्ध UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy