________________
उत्तराध्ययन ॥ ७४ ॥
द्वाविंशमध्ययनम्.
(२२) श्रीनेमिना. थचरित्रो. पसंहारः ४२७-४३३
व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥४९॥ इति ब्रवीमीति प्राग्वत्॥इतश्च ॥ ___ भगवान्नेमिनाथोऽपि, विहरन्नवनीतले ॥ पद्मानिव सहस्रांशु-भव्यसत्त्वानबूबुधत् ॥ ४२७ ॥ दशचापोच्छ्यः शङ्क-लक्ष्माम्भोदप्रभः प्रभुः ॥ दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ॥२८ ॥ अष्टादशसहस्राणि, साधूनां सांधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ २९ ॥ एकोनसप्ततिसह-साग्रं लक्षमुपासकाः॥ लक्षत्रयं च षत्रिंश-त्सहस्राढ्यमुपासिकाः ॥ ३०॥ चतुःपंचाशदिनोना, सप्तवर्षशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ ३१॥ [त्रिभिर्विशेषकम् ] पर्यन्ते चोजयन्ताद्रौ, प्रपेदेऽनशनं प्रभुः ॥षत्रिंशदधिकैः सार्द्ध, साधूनां पञ्चभिः शतैः ॥ ३२ ॥ तैः साधुभिश्च सह वर्षसहस्रमान-मायुः प्रर्य जिनभानुररिष्टनेमिः ॥ मासेन निवृतिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलैः सुरेशैः ॥ ४३३ ॥ इति श्रीअरिष्टनेमिजिनचरितम् ॥ १ साधुधर्मणाम् । इति 'ध' पुस्तके ॥ २ सत्तमः । इति 'घ' पुस्तके । RCRATraconoramicseDAORATOR
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय॥ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ॥ २२॥ । ನಿವ೯ಹಕನಕನಹನಕನಕವು
UTR-3