SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ६९ ॥ १२ उ०७४ मूलम् —सा पवइआ संती, पवावेसी तहिं बहुं । सयणं परिअणं चेत्र, सीलवंता बहुस्सुआ ॥ ३२॥ व्याख्या - 'पवावेसित्ति' प्रत्राजयामासेति सूत्रत्रयार्थः ॥ ३२ ॥ तदुत्तरवक्तव्यतामाह मूलम् - गिरिं च रेवयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिआ ३३ व्याख्या—गिरिं च रैवतं यान्ती, स्वामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उल्लत्ति' आर्द्रा क्लिन्नाम्बरा, अन्तराऽर्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरह्निते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ॥ ३३ ॥ तत्र च -- मूलम् - चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥३४॥ व्याख्या - चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भग्नचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तथा राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविटैर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ ३४ ॥ मूलम् - भीआय सा तहिं दहुँ, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसी अइ ||३५|| द्वाविंशमध्ययनम् गा ३२-३५ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy