SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् ४१९-४२६ इतश्च नेमिश्छद्मस्थ-श्चतुष्पञ्चाशतं दिनान् ॥ ग्रामादिषु विहृत्यागा-यो रैवतकाचलम् ॥ १९॥ तत्राष्टमतपाः खामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देव-स्तत्रागुः कम्पितासनाः ॥ २०॥ निर्मिते तैश्च समव-सरणे शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेभे देशनां प्रभुः ॥ २१ ॥ ज्ञानोत्पत्तिं प्रभोात्वो-द्यानपालादलाच्युतौ ॥ राजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः ॥ २२ ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च ॥ शुश्रुवुर्देशनां रम्या-मुढेलानन्दवार्द्धयः ॥ २३ ॥ [युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः ॥ नार्यश्च प्राजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ॥ २४ ॥ गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् ॥ द्वादशाङ्गीकृतः सद्य-स्त्रिपद्या खामिदत्तया ॥२५॥ रथनेमिरपि खामि-पार्थे प्रानजदन्यदा ॥राजीमती च सुमतिः, कन्याभिर्बहुभिः समम् ॥ २६ ॥ एतच सूत्रकारोऽपि दर्शयतिमूलम्-अह सा भमरसन्निभे, कुच्चफणगपसाहिए। सयमेव लुचई केसे, धिइमंता ववस्सिआ ॥३०॥ व्याख्या-सा राजीमती भ्रमरसन्निभान् , कूर्ची मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती स्वस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ॥ ३०॥ ततश्चRK मूलम्-वासुदेवो य णं भणइ, लत्तकेसं जिइंदिअं। संसारसायरं घोरं, तर कण्णे ! लहुं लहुं ॥३१॥ व्याख्या-'लहुं लहुंति' लघु लघु शीघ्रं शीघ्रम् , सम्भ्रमे द्विवचनम् ॥ ३१ ॥ ततः | गा ३०-३१ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy