________________
उत्तराध्ययन
द्वाविंशमध्ययनम् श्रीनेमिनाधचरित्रम् ४०४-४१८
रथनेमिः प्रभोर्धाता, रक्तो राजीमती कनीम् ॥ फलपुष्पविभूषादि-दानैर्नित्यमुपाचरत् ॥४॥ अयं हि सोदरस्नेहा-त्सर्वमेतद्ददाति मे ॥ ध्यायन्तीत्याददेऽशेष, दत्तं तेनोग्रसेनजा ॥ ५॥ स तु तद्हणादेव, खानुरक्तां विवेद ताम् ॥ काचकामलिवत्कामी, ह्यन्यथाभावमीक्षते ! ॥ ६ ॥ तां चेत्युवाच सोऽन्येधु-र्मा विषीदः सुलोचने ! ॥ निरागो नेमिरत्याक्षी-द्यदि त्वां तर्हि तेन किम् ? ॥ ७॥ मां प्रपद्यख भारं, कृतार्थय निजं वयः ॥ त्वां हि कामं कामयेहं, मालतीमिव षट्पदः॥८॥सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि ॥ शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया ? ॥९॥ तयेत्युक्तः स तूष्णीक-स्तस्थौ न तु जहाँ स्पृहाम्॥ कामुको हि निषिद्धोऽपि, नेच्छां शुन इव त्यजेत् ! ॥ १० ॥ रथनेमिरथान्येधु-स्सतीं राजीमती रहः ॥ इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ॥११॥ रक्ता नेमौ विरक्तेऽपि, शुष्के काष्ठ इवालिनी ॥ मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा ? ॥ १२॥ हन्ताऽहं तव दासः स्या-माजन्म स्वीकरोषि चेत् ॥ भोगान् मुंश्व विना तान् हि, विदो जन्माऽफलं विदुः ! ॥ १३ ॥ तदाकण्य पपी क्षीरं, तस्य पश्यत एव सा ॥ स्थाले पुरःस्थे मदन-फलाघ्राणेन चावमत् ॥ १४ ॥ पयः पिबदमित्यूचे, रथनमि च सा सती ॥ सोऽब्रवीत्किमहं श्वास्मि ?, यदुद्वान्तं पिबाम्यदः ! ॥ १५ ॥ स्मित्वा राजीमती माह, जानाति किमिदं भवान् ? ॥ सोऽवदच्छिशुरप्येत-द्वेत्ति नो वेश्यहं कुतः ? ॥ १६ ॥ ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना ॥ भोक्तुमिच्छन्कुतो मूढ!, कुर्कुरत्वं प्रपद्यसे ? ॥१७॥ ततो विमुक्ततत्कामो, रचनेमिरगाद्गृहम् ॥ सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ॥ १८ ॥
UTR-3