________________
उत्तराध्ययन
॥ ६५ ॥
३
१२
मूलम् -- देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो । निक्खमि बारयाओ, रेवययंमि द्विओ भयवं ॥ २२ ॥
व्याख्या -'सीआरयणंति' शिबिकारनं सुरकृतमुत्तरकुरुसंज्ञं, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ २२ ॥
मूलम् -- उज्जाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ । साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहिं ॥ २३ ॥
व्याख्या - तत्रापि गिरौ उद्यानं सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिविकातः 'साहस्सीएत्ति' पुरुषाणामितिशेषः परिवृतः । अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्क्रामति । तुः पूत्तौं, 'चित्ताहिंति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चखपि कल्याणकेषु तस्यैव भावात् ॥ २३ ॥ कथमित्याह -
मूलम् – अह सो सुगंधगंधिए, तुरिअं मउअकुंचिए । सयमेव लुंचई केसे, पंचमुट्ठीहिं समाहिओ २४
व्याख्या – सुगन्धगन्धिकान्स्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ॥ २४ ॥ एवमुपात्तदीक्षे मनः पर्यायज्ञानं प्राप्ते च जिने
द्वाविंशमध्ययनम्. श्रीनेमिना
थचरित्रम्
गा २२-२४
UTR-3