SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रम् ३९६-४०३ ततः कर्णो पिधायैव-मूचे राजीमती सती ॥ किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ॥ ३९६ ॥ निशा भजति चेद्भानु, बृहद्भानुं च शीतता ॥ तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥३९७॥ नेमेः पाणिर्विवाहे चे-मत्पाणौ न भविष्यति ॥ तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः!॥ ३९८ ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! ॥ इत्यूचानास्ततःप्रोचैः, खसखीः सा सतीत्यवक् ॥ ३९९ ॥ खप्नेऽद्यैरावणारूढो, दृष्टः कोऽपि पुमान्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥४०१॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् ॥ स मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥ १॥ सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे !॥ आपातकटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः !॥२॥ ध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा जज्ञे, व्रतमादातुमुद्यतः ॥ ३॥ अथ यथा प्रभुः प्रात्राजीत्तथा सूत्रकृदेव दर्शयति मूलम्-मणपरिणामो अकओ, देवा य जहोइअं समोइण्णा। सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥ व्याख्या-मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, सर्वद्धा युक्ता इति शेषः, सपर्षदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावान्निष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूर्ती ॥ २१॥ गा २१ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy