SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् ३८१-३९५ अयं हि भगवान् दीक्षा-मादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ ३८१ ॥ मुदितेषु तदाकर्ण्य, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽब्दिकं दानं, दातुं खामी प्रचक्रमे ॥ ३८२ ॥ इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥ राजीमती क्षिती वजा-हतेवाचेतनाऽपतत् ॥३८३॥ वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् !॥३८४ ॥ दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगमः ? ॥ त्वादृशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो ! ॥ तदा किमर्थ स्वीकृत्य, विवाहं मां व्यडम्बयः ? ॥ ३८७ ॥ यद्वा ममैवासौ दोषो-ऽरज्यं यत्त्वयि दुर्लभे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ॥ ३८८ ॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्यया खीकृत्य मुक्तायाः, सर्व मे विफलं विभो ! ॥ ३८९ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोच्चकैः ॥ ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ॥ ३९ ॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वादृशा हि महात्मानः, पंक्तिभेदं न कुर्वते ! ॥३९१ ॥ दृशा गिरा च मां रक्तां, विभो ! सम्भावयैकशः ॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ॥ ३९२ ॥ यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वाह मानुपकीटिका ? ॥ ३९३ ॥ इत्युचैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥ मा रोदः सखि ! यात्वेष, नीरसो निठुराग्रणीः ॥ ३९४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः ॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥३९५॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy