________________
उत्तराध्ययन
द्वाविंशमध्ययनम्.
(२२) गा २०
दा प्रभुम् ॥ इत्यूचा खाकृतत्यागतो यदून ? या भाविनी जीव ववधूमुर
श्रीनेमिनाधचरित्रम् ३७०-३८०
भगवतः कथमियं चिन्ता स्यात् ॥१९॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोषाद्यत्प्रभुश्चके तदाहमूलम्-सो कुंडलाण जुअलं, सुत्तगं च महायसो । आहरणाणि अ सवाणि. सारहिस्स पणामए ॥२०॥
व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः॥२०॥ ततो यदभूत्तदुच्यते
अवलिष्ट ततः खामी, सद्यो वक्र इव ग्रहः ॥ करुणारसपाधोधि-विश्वजन्तुहितावहः ! ॥ ३७०॥ शिवासमुद्रविजयौ, पुरो-भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणी !॥ ३७१ ॥ किं वत्सास्मत्प्रमोदद्रु-मुन्मूलयसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ ३७२ ॥ भवत्कृते स्वयं गत्वा, वृतपूर्वी तदगजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ ३७३ ॥ कथं वा भाविनी जीव-न्मृता राजीमती कनी॥ भत्तेहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा!॥ ३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ॥ ३७५ ॥ बभाण भगवान्पूज्याः!, श्लथयन्त्वेनमाग्रहम् ॥ प्रवर्त्यते हितेऽर्थे हि, | स्वाभीष्टो नाऽपरे पुनः ॥३७६॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति
दुर्गतिम् ! ॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसुन्दरे ! ॥ ३७८ ॥ [युग्मम् ] वदन्तमिति तं सार्व, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७९ ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे १ ॥३८०॥