________________
उत्तराध्ययन ॥ ६१ ॥
द्वाविंशमध्ययनम्. गा १६-१९
मूलम्-कस्स अट्ठा इमे पाणा, एए सत्वे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्धे अ अच्छहिं ॥१६॥ __ व्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिंति' तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पाणिणो। तुम्भंविवाहकजंमि, भुंजावेउं बहुं जणं१७ ___ व्याख्या-भहाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्य गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति शेषः १७॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाह-. मूलम्-सोऊण तस्स सो वयणं, बहुपाणविणासणं। चिंतेइ से महापण्णे, साणुकोसे जिएहि उ॥१८॥
व्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पृत्तौ ॥१८॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबह जिआ।न मे एअंतु निस्सेसं, परलोए भविस्सइ १९
___ व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतज्जीवहननं निःश्रेयसं कल्याण *परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच
१२
UTR-3