________________
उत्तराध्ययन
द्वाविंशमध्ययनम्
(२२) श्रीनेमिनाथचरित्रम् ३६३-३६९
वीक्ष्यायान्तं गवाक्षस्था, नेमि राजीमती कनी ॥ वचोऽगोचरमापन्ना-ऽऽनन्दमेवमचिन्तयत् ॥३६३॥ किमाश्चिनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा ॥ मर्त्यमूर्ति श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा ? ॥ ३६४॥ भर्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ॥ ३६५ ॥ काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं व वा ? ॥ इत्यज्ञासीन्न सा नेमि-दर्शनोत्थमुदा तदा !॥ ३६६ ॥ अत्रान्तरे स्फुरत्तस्या, मंक्षु दक्षिणमीक्षणम् ॥ तचोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ॥ ३६७ ॥ ऊचुः संख्यो हतं पापं, मा खिद्यख महाशये ! ॥ इयती भुवमायातो, न हि नेमिलिष्यते!॥ ३६८ ॥राजीमती जगी जाने, खभाग्यप्रत्ययादहम् ॥ इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ॥ ३६९ ॥ अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम्-अह सो तत्थ निजतो, दिस्स पाणे भयहुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए॥१४॥ ___ व्याख्या-अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यन्नधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन् , भयद्रुतान् भयत्रस्तान् , वाटेवोटकैः, पञ्जरेश्च सन्निरुद्धान् गाढनियंत्रितान् , अत एव सुदुःखितान् १४॥॥ मूलम्-जीवीअंतं तु संपत्ते, मंसट्टाभक्खिअवए । पासित्ता से महापण्णे, सारहिं पडिपुच्छइ ॥१५॥ ___ व्याख्या-जीवितान्तं मरणावसरं सम्प्राप्तान् , मांसार्थ मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हृदि निधाय भगवान् , महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः, प्रतिपृच्छति ॥ १५ ॥
गा १४-१५
UTR-3