SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 11 40 11 १२ ४० ०१ नन्दनाः क्व विनाङ्गनाम् १ ॥ अस्त्रीकस्यातिथिर्भिक्षो - रिवार्थमपि नाश्नुते ! ॥ ३४४ ॥ यामिन्यपि कथं याति, यूनो युवतिमन्तरा ? ॥ चक्रवाकीं विना पश्य, चक्रस्यान्दायते निशा ! ॥ ३४५ ॥ विना योग्यवधूयोगं, सकलोपि न शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः का नाम शीतगोः ! ॥ ३४६ ॥ पाणौ कृत्य ततः काञ्चित्कन्यां गुणगणाबुधे ! ॥ श्रीदाशार्ह ! दशार्हादि - यदूनां पूरयेर्हितम् ॥ ३४७ ॥ आजन्मखैरिणा षण्ढे-नेव धूर्भवता वधूः ॥ निर्वोढुं दुश्शका शङ्के, नोद्वाहं कुरुषे ततः ! ॥ ३४८ ॥ तदप्ययुक्तं निर्वोढा, तामप्यस्मानिवाच्युतः ॥ शेषस्याशेषभूधर्त्तु- र्नहि भाराय वल्लरी ! ॥ ३४९ ॥ निर्वाणाप्राप्तिभित्यापि मा भूर्भोगपराङ्मुखः ॥ भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः ! ॥ ३५० ॥ दद्याः प्रतिवचो मा वा धाष्टर्थ्यान्मूकस्य ते परम् ॥ नास्मतो भविता मोक्षो, विवाहाङ्गीकृति विना ! || ३५१ ॥ इति ताभिः प्रार्थ्यमान - मुपेत्याहन्तमादरात् ॥ प्रार्थयन्त तमेवार्थ, रामकृष्णादयोऽपि हि ! ॥ ३५२ ॥ बन्धुभिर्बन्धुरैर्वाक्यैः स निर्बन्धमितीरितः ॥ जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ॥ ३५३ ॥ तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः ॥ समुद्रविजयायाख्य- न्मुदमुन्मुद्रयन् पराम् ॥ ३५४ ॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! ॥ इत्थं समुद्रविजयः, प्रोचे तार्क्ष्यध्वजं ततः ।। ३५५ ॥ कनीं तदाह दाशार्हः सर्वतोऽन्वेषयंस्ततः ॥ चिन्ताचान्तोऽन्यदा सत्य - भामयैवमभाष्यत ॥ ३५६ ॥ राजीवनयना राजी-मती सद्गुणराजिनी ॥ नेमेरहस्ति जामिर्मे, जयन्तीजयिनी श्रिया ! ॥ ३५७ ॥ प्रिये ! साधु ममाहार्षी-श्चिन्तामिति वदंस्ततः ॥ उग्रसेननरन्द्रस्य, वेश्मो१ शण्डेन धूरिवाजन्म - खैरिणा भवता वधूः । इति "घ" पुस्तके ॥ द्वाविंशम - ध्ययनम् श्रीनेमिना धचरित्रम् ३४४-३५७ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy