SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ५६ ॥ १५ १८ २१ २४ कार्ये तत्रादिशद्धामा - रुक्मिण्याद्या निजाङ्गनाः ! ॥ ३० ॥ तदा च कामिनः कामं, वर्त्तयन्कामशासने ॥ विकारकारितां कार - स्कराणामपि शिक्षयन् ॥ ३१ ॥ मधुमत्तैर्मधुकरै - मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुलपुष्प - स्तवकत्रतत्रजः ॥ ३२ ॥ पिकानां पञ्चमोद्गीति-शिक्षणैककलागुरुः ॥ मलयानिलकल्लोल-लोलद्विरहिमानसः ॥ ३३ ॥ उत्साहितानङ्गवीरो, जगज्जनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ॥३४॥ [चतुर्भिः कलापकम् ॥] तदा कृष्णोपरोधेना-ऽवरोधे तस्य पारगः ॥ ऋतूचिताभिः क्रीडाभि- चिक्रीडाऽकामविक्रियः ॥ ३३५ ॥ व्यतीतेऽथ वसन्तत, ग्रीष्मः समवातरत् ॥ राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ ३६ ॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागरौ रैवतके, विजहार तदाग्रहात् ॥ ३७ ॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वालङ्कारो, निर्विकारो जगद्गुरुः ॥ ३८ ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा । संप्रश्रयं सप्रणयं सहा तं जगुः ॥ ३९ ॥ देवरादो देवराज - जित्वरं रूपमात्मनः ॥ वपुश्चेदं सदारोग्य - सौभाग्यादिगुणाञ्चितम् ॥ ४० ॥ शच्या अपि स्मरोन्माद-करमेतच्च यौवनम् || अनुरूपवधूयोगा (सफलीकुरु धीनिधे ! ॥ ४१ ॥ [ युग्मम् ] विना हि भोगान् विफलं रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः १, भोगरत्नं हि सुन्दरी ! ॥ ४२ ॥ भवेद्विना ङ्गनां नाङ्ग-शुश्रूषा मज्जनादिना ॥ अस्त्रीकस्य मनोभीष्टं निःखस्येव क्वक भोजनम् १ ॥ ४३ ॥ रत्नानीव विना खानिं १ भोगान् विना हि विफलं - इति "घ" पुस्तके प्रथमपादः ॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिना थचरित्रम् ३३०-३४३ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy